श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आढ्योऽभिजनवानस्मि
कोऽन्योऽस्ति सदृशो मया
यक्ष्ये दास्यामि मोदिष्य
इत्यज्ञानविमोहिताः ॥ १५ ॥
आढ्यः धनेन, अभिजनवान् सप्तपुरुषं श्रोत्रियत्वादिसम्पन्नःतेनापि मम तुल्यः अस्ति कश्चित्कः अन्यः अस्ति सदृशः तुल्यः मया ? किञ्च, यक्ष्ये यागेनापि अन्यान् अभिभविष्यामि, दास्यामि नटादिभ्यः, मोदिष्ये हर्षं अतिशयं प्राप्स्यामि, इति एवम् अज्ञानविमोहिताः अज्ञानेन विमोहिताः विविधम् अविवेकभावम् आपन्नाः ॥ १५ ॥

विद्यावृत्तधनाभिजनैः मत्तुल्यः नास्ति इत्याह -

आढ्यः इति ।

तथापि यागदानाभ्यां तत्फलेन वा कश्चित् अधिकः भविष्यति इति आशङ्क्य आह -

किञ्चेति ।

न च तेषां एषः अभिप्रायः साधीयान् इत्याह -

इत्येवमिति

॥ १५ ॥