आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥
आत्मसम्भाविताः सर्वगुणविशिष्टतया आत्मनैव सम्भाविताः आत्मसम्भाविताः, न साधुभिः । स्तब्धाः अप्रणतात्मानः । धनमानमदान्विताः धननिमित्तः मानः मदश्च, ताभ्यां धनमानमदाभ्याम् अन्विताः । यजन्ते नामयज्ञैः नाममात्रैः यज्ञैः ते दम्भेन धर्मध्वजितया अविधिपूर्वकं विधिविहिताङ्गेतिकर्तव्यतारहितम् ॥ १७ ॥