श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यः शास्त्रविधिमुत्सृज्य
वर्तते कामकारतः
सिद्धिमवाप्नोति
सुखं परां गतिम् ॥ २३ ॥
सर्वस्य एतस्य आसुरीसम्पत्परिवर्जनस्य श्रेयआचरणस्य च शास्त्रं कारणम् । शास्त्रप्रमाणात् उभयं शक्यं कर्तुम् , न अन्यथा । अतः —

आसुर्याः सम्पदः वर्जने श्रेयसश्च करणे किं कारणम् ? तत् आह -

सर्वस्येति ।

तस्य कारणत्वं साधयति -

शास्त्रेति ।

उक्तं उपजीव्य अनन्तरश्लोकं प्रवर्तयति -

अत इति ।