श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
ये शास्त्रविधिमुत्सृज्य
यजन्ते श्रद्धयान्विताः
तेषां निष्ठा तु का कृष्ण
सत्त्वमाहो रजस्तमः ॥ १ ॥
‘तस्माच्छास्त्रं प्रमाणं ते’ (भ. गी. १६ । २४) इति भगवद्वाक्यात् लब्धप्रश्नबीजः अर्जुन उवाच —

आस्तिकानां नास्तिकानां च शास्त्रैकचक्षुषां गतिः उक्ता । सम्प्रति आस्तिकानामेव शास्रानभिज्ञानां गतिं जिज्ञासया पृच्छति इति आह -

तस्मादिति ।