किमिति श्रद्धात्रैविध्यं प्रश्नानुपयुक्तम् उच्यते, तत्राह -
यस्यामिति ।
श्राद्धपूर्विकायां क्रियायाम् इति यावत् ।
श्रद्धात्रैविध्ये हेतुम् आह -
सा स्वभावजेति ।
स्वभावशब्दार्थं प्रकृतोपयोगितया कथयति -
जन्मान्तरेति ।
कथं त्रिविधा ? इति अपेक्षायाम् आह -
सात्त्विकीत्यादिना ।
कथम् उक्ता श्रद्धा स्वभावजा ? इति तत्र आह -
तामिति
॥ २ ॥