श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्शयन्तः शरीरस्थं
भूतग्राममचेतसः
मां चैवान्तःशरीरस्थं
तान्विद्ध्यासुरनिश्चयान् ॥ ६ ॥
कर्शयन्तः कृशीकुर्वन्तः शरीरस्थं भूतग्रामं करणसमुदायम् अचेतसः अविवेकिनः मां चैव तत्कर्मबुद्धिसाक्षिभूतम् अन्तःशरीरस्थं नारायणं कर्शयन्तः, मदनुशासनाकरणमेव मत्कर्शनम् , तान् विद्धि आसुरनिश्चयान् आसुरो निश्चयो येषां ते आसुरनिश्चयाः तान् परिहरणार्थं विद्धि इति उपदेशः ॥ ६ ॥

रजोनिष्ठान् प्राधान्येन प्रदर्श्य, तमोनिष्ठान् प्राधान्येन दर्शयति -

कर्शयन्तः इति ।

कथं शरीरादिसाक्षिणम् ईश्वरं प्रति कृशीकरणं प्राणिनां प्रकल्प्यते ? तत्राह -

मदनुशासनेति ।

तेषां विपर्यासनिश्चयवतां परिज्ञानं कुत्र उपयुज्यते ? तत्राह -

परिहरणार्थमिति

॥ ६ ॥