रजोनिष्ठान् प्राधान्येन प्रदर्श्य, तमोनिष्ठान् प्राधान्येन दर्शयति -
कर्शयन्तः इति ।
कथं शरीरादिसाक्षिणम् ईश्वरं प्रति कृशीकरणं प्राणिनां प्रकल्प्यते ? तत्राह -
मदनुशासनेति ।
तेषां विपर्यासनिश्चयवतां परिज्ञानं कुत्र उपयुज्यते ? तत्राह -
परिहरणार्थमिति
॥ ६ ॥