श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आहाराणां रस्यस्निग्धादिवर्गत्रयरूपेण भिन्नानां यथाक्रमं सात्त्विकराजसतामसपुरुषप्रियत्वदर्शनम् इह क्रियते रस्यस्निग्धादिषु आहारविशेषेषु आत्मनः प्रीत्यतिरेकेण लिङ्गेन सात्त्विकत्वं राजसत्वं तामसत्वं बुद्ध्वा रजस्तमोलिङ्गानाम् आहाराणां परिवर्जनार्थं सत्त्वलिङ्गानां उपादानार्थम्तथा यज्ञादीनामपि सत्त्वादिगुणभेदेन त्रिविधत्वप्रतिपादनम् इहराजसतामसान् बुद्ध्वा कथं नु नाम परित्यजेत् , सात्त्विकानेव अनुतिष्ठेत्इत्येवमर्थम्आह

उत्तरश्लोकपूर्वार्धतात्पर्यम् आह -

आहाराणामिति ।

रस्यादिवर्गस्य सात्त्विकपुरुषप्रियत्वं, कट्वादिवर्गस्य राजसप्रियत्वं, यातयामादिवर्गस्य तामसप्रियत्वमिति दर्शनं कुत्र उपयुज्यते ? तत्र आह -

रस्येति ।

श्लोकोत्तरार्धतात्पर्यम् आह -

तथेति ।

आहारत्रैविध्यवत् इति यावत् ।