श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ ७ ॥
आहाराणां च रस्यस्निग्धादिवर्गत्रयरूपेण भिन्नानां यथाक्रमं सात्त्विकराजसतामसपुरुषप्रियत्वदर्शनम् इह क्रियते रस्यस्निग्धादिषु आहारविशेषेषु आत्मनः प्रीत्यतिरेकेण लिङ्गेन सात्त्विकत्वं राजसत्वं तामसत्वं च बुद्ध्वा रजस्तमोलिङ्गानाम् आहाराणां परिवर्जनार्थं सत्त्वलिङ्गानां च उपादानार्थम् । तथा यज्ञादीनामपि सत्त्वादिगुणभेदेन त्रिविधत्वप्रतिपादनम् इह ‘राजसतामसान् बुद्ध्वा कथं नु नाम परित्यजेत् , सात्त्विकानेव अनुतिष्ठेत्’ इत्येवमर्थम् । आह —

उत्तरश्लोकपूर्वार्धतात्पर्यम् आह -

आहाराणामिति ।

रस्यादिवर्गस्य सात्त्विकपुरुषप्रियत्वं, कट्वादिवर्गस्य राजसप्रियत्वं, यातयामादिवर्गस्य तामसप्रियत्वमिति दर्शनं कुत्र उपयुज्यते ? तत्र आह -

रस्येति ।

श्लोकोत्तरार्धतात्पर्यम् आह -

तथेति ।

आहारत्रैविध्यवत् इति यावत् ।