मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
सप्तदशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
विधिहीनमसृष्टान्नं
मन्त्रहीनमदक्षिणम्
।
श्रद्धाविरहितं
यज्ञं
तामसं
परिचक्षते
॥ १३ ॥
विधिहीनं यथाचोदितविपरीतम् , असृष्टान्नं ब्राह्मणेभ्यो न सृष्टं न दत्तम् अन्नं यस्मिन् यज्ञे सः असृष्टान्नः तम् असृष्टान्नम् , मन्त्रहीनं मन्त्रतः स्वरतो वर्णतो वा वियुक्तं मन्त्रहीनम् , अदक्षिणम् उक्तदक्षिणारहितम् , श्रद्धाविरहितं यज्ञं तामसं परिचक्षते तमोनिर्वृत्तं कथयन्ति ॥ १३ ॥
विधीति
;
तामसं यज्ञं हानार्थमेव उदाहरति -
विधीति
॥ १३ ॥