श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं यत्
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १५ ॥
अनुद्वेगकरं प्राणिनाम् अदुःखकरं वाक्यं सत्यं प्रियहितं च यत् प्रियहिते दृष्टादृष्टार्थे । अनुद्वेगकरत्वादिभिः धर्मैः वाक्यं विशेष्यते । विशेषणधर्मसमुच्चयार्थः च—शब्दः । परप्रत्ययार्थं प्रयुक्तस्य वाक्यस्य सत्यप्रियहितानुद्वेगकरत्वानाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा हीनता स्याद्यदि, न तद्वाङ्मयं तपः । तथा सत्यवाक्यस्य इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनतायां न वाङ्मयतपस्त्वम् । तथा प्रियवाक्यस्यापि इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य न वाङ्मयतपस्त्वम् । तथा हितवाक्यस्यापि इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य न वाङ्मयतपस्त्वम् । किं पुनः तत् तपः ? यत् सत्यं वाक्यम् अनुद्वेगकरं प्रियं हितं च, तत् तपः वाङ्मयम् ; यथा ‘शान्तो भव वत्स, स्वाध्यायं योगं च अनुतिष्ठ, तथा ते श्रेयो भविष्यति’ इति । स्वाध्यायाभ्यसनं चैव यथाविधि वाङ्मयं तपः उच्यते ॥ १५ ॥

सम्प्रति वाङ्मयं तपो व्यपदिशति -

अनुद्वेगकरमिति ।

सत्यं - यथादृष्टार्थवचनं, प्रियं - श्रुतिसुखं, हितं - परिणामपथ्यम् । प्रियहितयोः विधान्तरेण विभागम् आह -

प्रियेति ।

कथम् अत्र विशेषणविशेष्यत्वम् ? तदाह -

अनुद्वेगेति ।

विशेषणानां धर्माणाम् अनुद्वेगकरत्वादीनां विशेष्येण वाक्येन समुदितानां परस्परमपि समुच्चयद्योती चकारः इत्याह -

विशेषणेति ।

किमिति वाक्यम् एतैः विशेष्यते ? किमिति वा  तेषां मिथः समुच्चयः ? तत्र आह -

परेति ।

यद्यपि वाक्यमात्रस्य अविशेषितस्य वाङ्मयतपस्त्वानुपपत्तिः, तथापि सत्यवाक्यस्य वाक्यविशेषणान्तराभावेऽपि वाङ्मयत्वम् इति आशङ्क्य आह -

तथेति ।

तथापि परिणामपथ्यं वक्यमात्रं तथा भविष्यति, न इत्याह -

तथा हितेति ।

कीदृक् तर्हि तपः वाङ्मयमिति प्रश्नपूर्वकं विशदयति -

किं पुनरिति ।

विशिष्टे वाङ्मये तपसि दृष्टान्तम् आह -

यथेति ।

प्राङ्मुखत्वं पवित्रपाणित्वम् इत्यादिविधानम् अनतिक्रम्य स्वाध्यायस्य आवर्तनमपि वाङ्मये तपसि अन्तर्भवति इत्याह -

स्वाध्यायेति ।

वाक् प्राचुर्येण प्रस्तुता अस्मिन् इति वाङ्मयं वाकप्रधानम् इत्यर्थः

॥ १५ ॥