राजसं तपः निर्दिशति -
सत्कारेति ।
साधुकारमेव आस्फोरयति । साधुरिति- दम्भेन चैव - नास्तिक्येन, केवलधर्मध्वजित्वेन इत्यर्थः । तत् इह प्रोक्तं - अस्मिन्नेव लोके फलप्रदम् इत्यर्थः । कादाचित्कफलत्वं - क्षणिकफलत्वम् । अध्रुवं - अनियतं, अनैकान्तिकफलम् इति यावत्
॥ १८ ॥