मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
सप्तदशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
यत्तु
प्रत्युपकारार्थं
फलमुद्दिश्य
वा
पुनः
।
दीयते
च
परिक्लिष्टं
तद्दानं
राजसं
स्मृतम्
॥ २१ ॥
यत्तु दानं प्रत्युपकारार्थं काले तु अयं मां प्रत्युपकरिष्यति इत्येवमर्थम् , फलं वा अस्य दानस्य मे भविष्यति अदृष्टम् इति, तत् उद्दिश्य पुनः दीयते च परिक्लिष्टं खेदसंयुक्तम् , तत् दानं राजसं स्मृतम् ॥ २१ ॥
राजसतामसदानविभजनं स्पष्टार्थम्
॥ २१ - २२ ॥