‘ओमिति ब्रह्म’ (तै. उ. १-८-१) इत्यादिश्रुतेः ओमिति तावत् ब्रह्मणः नामनिर्देशः । ‘तत्त्वमसि’ (छा. उ. ६-८-७) इति श्रुतेः तत् इत्यपि ब्रह्मणः नामनिर्देशः । ‘सदेव सोम्येदम् ‘ इति श्रुतेः सदित्यपि तस्य नाम इति मत्वा आह -
ओमिति ।
कथं निर्देशेन तेषां विधानम् ? इति आशङ्क्य आह -
निर्दिश्यत इति ।
यज्ञादीनां वैगुण्यप्रतीतिकाले यथोक्तनाम्नाम् अन्यतमोच्चारणात् अवैगुण्यं सिध्यतीति भावः ।
कर्मसाद्गुण्यकारणं त्रिविधनाम स्तौति -
ब्राह्मणाः इति ।
पूर्वं - सर्गादौ निर्माणं च प्रजापतिकर्तृकम्
॥ २३ ॥