पक्षद्वयोपन्यासेन संन्यासत्यागशब्दयोः अर्थभेदं कथयति -
काम्यानाम् इति ।
तत् किम् इदानीं संन्यासत्यागशब्दयोः आत्यन्तिकं भिन्नार्थत्वम् ? तदा प्रसिद्धिविरोधः स्यात् इति अशङ्क्य अवान्तरभेदेऽपि न आत्यन्तिकभेदः अस्ति इत्याह -
यदीति ।