पुत्राभावात् वन्ध्यायाः तत्त्यागायोगवत् , नित्यनैमित्तिककर्मणाम् अफलानां फलत्यागानुपपत्तेः उक्तः त्यागशब्दार्थः न सिद्ध्यति इति शङ्कते -
नन्विति ।
नित्यनैमित्तिककर्मफलस्य वन्ध्यापुत्रसादृश्याभावात् तत्त्यागसम्भवात् उक्तः त्यागशब्दार्थः सम्भवति इति समाधत्ते -
नैष दोष इति ।
भगवता तेषां फलवत्त्वम् इष्टम् इत्यत्र वाक्यशेषम् अनुकूलयति -
वक्ष्यतीति ।
तर्हि संन्यासिनाम् असंन्यासिनां च नित्याद्यनुष्ठायिनाम् अविशेषेण तत्फलं स्यात् इति चेत् , नैव इत्याह -
न त्विति ।
वक्ष्यति इति अनुकर्षणं चकारार्थः ।
प्रसक्तस्य वचसः अर्थं प्रकृतोपयोगित्वेन सङ्गृह्य स्मारयति -
संन्यासिनाम् इति
॥ २ ॥