श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥
संन्यासत्यागशब्दौ तत्र तत्र निर्दिष्टौ, न निर्लुठितार्थौ पूर्वेषु अध्यायेषु । अतः अर्जुनाय पृष्टवते तन्निर्णयाय भगवान् उवाच —

ननु पूर्वेषु अध्यायेषु तत्र तत्र संन्यासत्यागयोः उक्तत्वात् किमिति पुनः तौ पृचछ्यते ? ज्ञाते तदयोगात् । तत्राह -

तत्र तत्रेति ।

न निर्लुण्ठितार्थौ - न निष्कृष्टार्थौ न विविक्तार्थौ इत्यर्थः ।

बुभुत्सया प्रश्नस्य प्रवृत्तत्वात् , प्रष्टुः अभिपायं प्रश्नेन प्रतिपद्य भगवान् उत्तरम् उक्तवान् इत्याह -

अत इति ।