श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः
यज्ञदानतपःकर्म त्याज्यमिति चापरे ॥ ३ ॥
त्याज्यं त्यक्तव्यं दोषवत् दोषः अस्य अस्तीति दोषवत्किं तत् ? कर्म बन्धहेतुत्वात् सर्वमेवअथवा, दोषः यथा रागादिः त्यज्यते, तथा त्याज्यम् इति एके कर्म प्राहुः मनीषिणः पण्डिताः साङ्ख्यादिदृष्टिम् आश्रिताः, अधिकृतानां कर्मिणामपि इतितत्रैव यज्ञदानतपःकर्म त्याज्यम् इति अपरे

काम्यानि वर्जयित्वा नित्यनैमित्तिकानि फलाभिलापात् ऋते, कर्तव्यानि इति अक्तं पक्षं प्रतिपक्षनिरासेन द्रढयितुं विप्रतिपत्तिम् आह -

त्याज्यमिति ।

कर्मणः सर्वस्य दोषवत्त्वे हेतुम् आह -

बन्धेति ।

दोषवत् इत्येतत् दृष्टान्तत्वेन व्याचष्टे -

अथवेति ।

कर्मणि अनधिकृतानाम् अकर्मिणामेव कर्म त्याज्यं, कर्मिणां तत्त्यागे प्रत्यवायात् , इति आशङ्क्य आह -

अधिकृतानामिति ।

न हि तेषामपि कर्म त्यजतां प्रत्यवायः, हिंसादियुक्तस्य कर्मणः अनुष्ठाने परं प्रत्यवायात् इति भावः । साङ्ख्यादिपक्षसमाप्तौ इतिशब्दः ।

मीमांसकपक्षमाह -

तत्रैवेति ।

कर्माधिकृतेष्वेव इति यावत् ।