श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
निश्चयं शृणु मे तत्र
त्यागे भरतसत्तम
त्यागो हि पुरुषव्याघ्र
त्रिविधः सम्प्रकीर्तितः ॥ ४ ॥
निश्चयं शृणु अवधारय मे मम वचनात् ; तत्र त्यागे त्यागसंन्यासविकल्पे यथादर्शिते भरतसत्तम भरतानां साधुतम । त्यागो हि, त्यागसंन्यासशब्दवाच्यो हि यः अर्थः सः एक एवेति अभिप्रेत्य आह — त्यागो हि इति । पुरुषव्याघ्र, त्रिविधः त्रिप्रकारः तामसादिप्रकारैः सम्प्रकीर्तितः शास्त्रेषु सम्यक् कथितः यस्मात् तामसादिभेदेन त्यागसंन्यासशब्दवाच्यः अर्थः अधिकृतस्य कर्मिणः अनात्मज्ञस्य त्रिविधः सम्भवति, न परमार्थदर्शिनः, इत्ययमर्थः दुर्ज्ञानः, तस्मात् अत्र तत्त्वं न अन्यः वक्तुं समर्थः । तस्मात् निश्चयं परमार्थशास्त्रार्थविषयम् अध्यवसायम् ऐश्वरं मे मत्तः शृणु ॥ ४ ॥

तमेव निश्चयं दर्शयितुम् आदौ त्यागगतम् अवान्तरविभागम् आह -

त्यागो हीति ।

ननु त्यागसंन्यासयोः उभयोरपि प्रकृतत्वाविशेषे त्यागस्यैव अवान्तरविभागाभिधाने संन्यासस्य उपेक्षितत्वम् आपद्येत ? न इत्याह -

त्यागेति ।

सात्विकः राजसः तामसश्च इति उक्ते अर्थे त्रैविध्येऽपि स्वयमेव निश्चयसम्भवात् किम् अत्र भागवतेन निश्चयेन इति आशङ्क्य आह -

यस्मादिति ।

भगवतः अन्येन उक्तविभागे तत्त्वानिश्चयात् भागवतनिश्चयस्य श्रोतव्यता इति निगमयति -

तस्मादिति

॥ ४ ॥