श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
निश्चयं शृणु मे तत्र
त्यागे भरतसत्तम
त्यागो हि पुरुषव्याघ्र
त्रिविधः सम्प्रकीर्तितः ॥ ४ ॥
निश्चयं शृणु अवधारय मे मम वचनात् ; तत्र त्यागे त्यागसंन्यासविकल्पे यथादर्शिते भरतसत्तम भरतानां साधुतमत्यागो हि, त्यागसंन्यासशब्दवाच्यो हि यः अर्थः सः एक एवेति अभिप्रेत्य आहत्यागो हि इतिपुरुषव्याघ्र, त्रिविधः त्रिप्रकारः तामसादिप्रकारैः सम्प्रकीर्तितः शास्त्रेषु सम्यक् कथितः यस्मात् तामसादिभेदेन त्यागसंन्यासशब्दवाच्यः अर्थः अधिकृतस्य कर्मिणः अनात्मज्ञस्य त्रिविधः सम्भवति, परमार्थदर्शिनः, इत्ययमर्थः दुर्ज्ञानः, तस्मात् अत्र तत्त्वं अन्यः वक्तुं समर्थःतस्मात् निश्चयं परमार्थशास्त्रार्थविषयम् अध्यवसायम् ऐश्वरं मे मत्तः शृणु ॥ ४ ॥

तमेव निश्चयं दर्शयितुम् आदौ त्यागगतम् अवान्तरविभागम् आह -

त्यागो हीति ।

ननु त्यागसंन्यासयोः उभयोरपि प्रकृतत्वाविशेषे त्यागस्यैव अवान्तरविभागाभिधाने संन्यासस्य उपेक्षितत्वम् आपद्येत ? न इत्याह -

त्यागेति ।

सात्विकः राजसः तामसश्च इति उक्ते अर्थे त्रैविध्येऽपि स्वयमेव निश्चयसम्भवात् किम् अत्र भागवतेन निश्चयेन इति आशङ्क्य आह -

यस्मादिति ।

भगवतः अन्येन उक्तविभागे तत्त्वानिश्चयात् भागवतनिश्चयस्य श्रोतव्यता इति निगमयति -

तस्मादिति

॥ ४ ॥