उपसंहारश्लोकाक्षराणि व्याकरोति - एतानीत्यादिना । अक्षरार्थम् उक्त्वा तात्पर्यार्थमाह -
निश्चयमिति ।
प्रकृतार्थोपसंहारे गमकमाह -
एतान्यपीति ।
अपिशब्दस्य विवक्षितम् अर्थं दर्शयति -
सासङ्गस्येति ।
व्यावर्त्यं कीर्तयति -
न त्विति ।