ननु कश्चित् नियतमपि कर्म त्यजन् उपलभ्यते ? तत्र आह -
मोहादिति ।
अज्ञानं - पावनत्वापरिज्ञानम् । अज्ञस्य नित्यकर्मपरित्यागः मोहात् , इति एतत् उपपादयति -
नियतं चेति ।
नित्यकर्मत्यागस्य मोहकृतत्वे कुतः तामसत्वम् ? इति आशङ्क्य आह -
मोहश्चेति
॥ ७ ॥