श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नियतस्य तु संन्यासः कर्मणो नोपपद्यते
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७ ॥
नियतस्य तु नित्यस्य संन्यासः परित्यागः कर्मणः उपपद्यते, अज्ञस्य पावनत्वस्य इष्टत्वात्मोहात् अज्ञानात् तस्य नियतस्य परित्यागःनियतं अवश्यं कर्तव्यम् , त्यज्यते , इति विप्रतिषिद्धम् ; अतः मोहनिमित्तः परित्यागः तामसः परिकीर्तितः मोहश्च तमः इति ॥ ७ ॥

ननु कश्चित् नियतमपि कर्म त्यजन् उपलभ्यते ? तत्र आह -

मोहादिति ।

अज्ञानं - पावनत्वापरिज्ञानम् । अज्ञस्य नित्यकर्मपरित्यागः मोहात् , इति एतत् उपपादयति -

नियतं चेति ।

नित्यकर्मत्यागस्य मोहकृतत्वे कुतः तामसत्वम् ? इति आशङ्क्य आह -

मोहश्चेति

॥ ७ ॥