श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नियतस्य तु संन्यासः कर्मणो नोपपद्यते
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७ ॥
तस्मात् अज्ञस्य अधिकृतस्य मुमुक्षोः —

नित्यकर्मणाम् अवश्यकर्तव्यत्वम् उक्तम् उपजीव्य अपेक्षितं पूरयन् अनन्तरश्लोकम् अवतारयति -

तस्मादिति ।