श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्
कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥
दुःखम् इति एव यत् कर्म कायक्लेशभयात् शरीरदुःखभयात् त्यजेत् , सः कृत्वा राजसं रजोनिर्वर्त्यं त्यागं नैव त्यागफलं ज्ञानपूर्वकस्य सर्वकर्मत्यागस्य फलं मोक्षाख्यं लभेत् नैव लभेत ॥ ८ ॥

ननु मोहं विनैव दुःखात्मकं कर्म कायक्लेशभयात् त्यजति । करणानि हि कार्यं जनयन्ति च । तथा च न तत्त्यागः तामसो युक्तः । तत्र आह -

दुःखमित्येवेति ।

यत् कर्म दुःखात्मकम् अशक्यम् असाध्यम् इत्येव आलोच्य ततो निवर्तते, देहस्य इन्द्रियाणां च क्लेशात्मनो भयात् त्यजति, सः तत्  त्यक्त्वा - रजोनिमित्तं त्यागं कृत्वापि, न तत्फलं मोक्षं लभते, किन्तु कृतेनैव राजसेन त्यागेन तदनुरूपं नरकं प्रतिपद्यते इत्याह -

दुःखमित्येवेत्यादिना

॥ ८ ॥