श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कार्यमित्येव यत्कर्म
नियतं क्रियतेऽर्जुन
सङ्गं त्यक्त्वा फलं चैव
त्यागः सात्त्विको मतः ॥ ९ ॥
कार्यं कर्तव्यम् इत्येव यत् कर्म नियतं नित्यं क्रियते निर्वर्त्यते हे अर्जुन, सङ्गं त्यक्त्वा फलं च एव । एतत् नित्यानां कर्मणां फलवत्त्वे भगवद्वचनं प्रमाणम् अवोचाम । अथवा, यद्यपि फलं न श्रूयते नित्यस्य कर्मणः, तथापि नित्यं कर्म कृतम् आत्मसंस्कारं प्रत्यवायपरिहारं वा फलं करोति आत्मनः इति कल्पयत्येव अज्ञः । तत्र तामपि कल्पनां निवारयति ‘फलं त्यक्त्वा’ इत्यनेन । अतः साधु उक्तम् ‘सङ्गं त्यक्त्वा फलं च’ इति । सः त्यागः नित्यकर्मसु सङ्गफलपरित्यागः सात्त्विकः सत्त्वनिर्वृत्तः मतः अभिप्रेतः ॥

कर्तव्यम् इत्येव इति एवकारेण नित्यस्य भाव्यान्तरं  निषिध्यते । नित्यानां विध्युद्देशे फलाश्रवणात् , तेषां फलं त्यक्त्वा इति अयुक्तम् , इति आशङ्क्य आह-

नित्यानामिति ।

फलं त्यकत्वा इत्यस्य विधान्तरेण तात्पर्यम् आह -

अथवेति ।

न हि विधिना कृतं कर्म अनर्थकं, विध्यानर्थक्यात् । तेन श्रौतफलाभावेऽपि नित्यं कर्म विधितः अनुतिष्ठन् , आत्मानम् अजानन् अनुपहतमनस्त्वोक्त्या तस्मिन् कर्मणि आत्मसंस्कारं फलं कल्पयति, तदकरणे प्रत्यवायस्मृत्या तत्करणं, कर्तुः आत्मनः तन्निवृत्तिं करोति इति वा नित्ये कर्मणि उक्तां कल्पनाम् अनु निष्पादितफलकल्पनां च ‘फलं त्यक्त्वा’ इति अस्य भगवान् निवारयति इत्यर्थः ।

नित्यकर्मसु फलत्यागोक्तेः सम्भवे फलितमाह -

अत इति ।