काम्यकर्मणि त्याज्यत्वेन द्वेषम् अभिनयति -
किमिति ।
उभयत्र द्वेषं प्रीतिं च न करोति इति सामान्येन उक्तं कर्तारं प्रश्नपूर्वकं विशेषतः निर्दिशति -
कः पुनरिति ।
त्यागी इति उक्तं त्यागिनम् अभिव्यनक्ति -
पूर्वोक्तेनेति ।
कर्मणि सङ्गस्य तत्फलस्य च त्यागेन इति यावत् ।
उक्तमेव त्यागिनं विवृणोति -
यः कर्मणि इति ।
तत्फलं त्यक्त्वा इति सम्बन्धः । काम्ये निषिद्धे च कर्मणि बन्धहेतुः इति न द्वेष्टि, नित्ये नैमित्तिके च मोक्षहेतुः इति न प्रीयते ।
तत्र कालविशेषं पृच्छति -
कदेति ।
नित्यादिकर्मणा फलाभिसन्धिवर्जितेन क्षपितकल्मषस्य सत्त्वं - यथार्थग्रहणसामर्थ्यम् उद्बुध्यते, तेन समावेशदशायाम् उक्तप्रीतिद्वेषयोः अभावः भवति इत्याह -
उच्यते इति ।
अत एवेति -
समुद्बुद्धयथार्यग्रहणसमर्थसमाविष्टत्वात् इत्यर्थः ।
छिन्नसंशयत्वमेव विशदयति -
आत्मेति ।
परं निःश्रेयसं तस्य च साधनं सम्यग्ज्ञानमेव इति योजना ।