न द्वेष्ट्यकुशलं कर्म
कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो
मेधावी च्छिन्नसंशयः ॥ १० ॥
यः अधिकृतः पुरुषः पूर्वोक्तेन प्रकारेण कर्मयोगानुष्ठानेन क्रमेण संस्कृतात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन सम्बुद्धः, सः सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन् न कारयन् आसीनः नैष्कर्म्यलक्षणां ज्ञाननिष्ठाम् अश्नुते इत्येतत् । पूर्वोक्तस्य कर्मयोगस्य प्रयोजनम् अनेनैव श्लोकेन उक्तम् ॥ १० ॥