श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
द्वेष्ट्यकुशलं कर्म
कुशले नानुषज्जते
त्यागी सत्त्वसमाविष्टो
मेधावी च्छिन्नसंशयः ॥ १० ॥
यः अधिकृतः पुरुषः पूर्वोक्तेन प्रकारेण कर्मयोगानुष्ठानेन क्रमेण संस्कृतात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन सम्बुद्धः, सः सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन् कारयन् आसीनः नैष्कर्म्यलक्षणां ज्ञाननिष्ठाम् अश्नुते इत्येतत्पूर्वोक्तस्य कर्मयोगस्य प्रयोजनम् अनेनैव श्लोकेन उक्तम् ॥ १० ॥

न द्वेष्टि इत्यादिना श्लोकेन उक्तम् अर्थं सङ्क्षिप्य अनुवदति -

योऽधिकृत इति ।

पूर्वोक्तप्रकारेण इति कर्मणि तत्फले च सङ्गत्यागेन इत्यर्थः । कर्मात्मयोगस्य अनुष्ठानेन संस्कृतात्मा सन् क्रमेण श्रवणाद्यनुष्ठानद्वारेण कूटस्थं ब्रह्म प्रत्यक्त्वेन सम्बुद्धः इति सम्बन्धः ।

परस्य निष्क्रियत्वे हेतुम् आह -

जन्मादीति ।

उक्तज्ञानवतः सर्वकर्मत्यागद्वारा मुक्तिभाक्त्वं दर्शयति -

स सर्वेति

॥ १० ॥