न द्वेष्टि इत्यादिना श्लोकेन उक्तम् अर्थं सङ्क्षिप्य अनुवदति -
योऽधिकृत इति ।
पूर्वोक्तप्रकारेण इति कर्मणि तत्फले च सङ्गत्यागेन इत्यर्थः । कर्मात्मयोगस्य अनुष्ठानेन संस्कृतात्मा सन् क्रमेण श्रवणाद्यनुष्ठानद्वारेण कूटस्थं ब्रह्म प्रत्यक्त्वेन सम्बुद्धः इति सम्बन्धः ।
परस्य निष्क्रियत्वे हेतुम् आह -
जन्मादीति ।
उक्तज्ञानवतः सर्वकर्मत्यागद्वारा मुक्तिभाक्त्वं दर्शयति -
स सर्वेति
॥ १० ॥