श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः
यस्तु कर्मफलत्यागी त्यागीत्यभिधीयते ॥ ११ ॥
यः पुनः अधिकृतः सन् देहात्माभिमानित्वेन देहभृत् अज्ञः अबाधितात्मकर्तृत्वविज्ञानतया ‘अहं कर्ता’ इति निश्चितबुद्धिः तस्य अशेषकर्मपरित्यागस्य अशक्यत्वात् कर्मफलत्यागेन चोदितकर्मानुष्ठाने एव अधिकारः, न तत्त्यागे इति एतम् अर्थं दर्शयितुम् आह —

आत्मज्ञानवतः सर्वकर्मत्यागसम्भावनाम् उक्त्वा तद्धीनस्य तदसम्भवे हेतुवचनत्वेन अनन्तरश्लोकम् अवतारयति -

यः पुनरिति ।

न बाधितम् आत्मनि कर्तृत्वविज्ञानम् अस्य इति अज्ञः, तथा तस्य भावः तत्ता, तयेति यावत् । एवम् अर्थं दर्शयितुम् अज्ञस्य सर्वकर्मसंन्यासासम्भवे हेतुम् आह इति योजना । यस्मात् इत्यस्य तस्मात् इत्युत्तरेण सम्बन्धः ।