श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यः पुनः अधिकृतः सन् देहात्माभिमानित्वेन देहभृत् अज्ञः अबाधितात्मकर्तृत्वविज्ञानतयाअहं कर्ताइति निश्चितबुद्धिः तस्य अशेषकर्मपरित्यागस्य अशक्यत्वात् कर्मफलत्यागेन चोदितकर्मानुष्ठाने एव अधिकारः, तत्त्यागे इति एतम् अर्थं दर्शयितुम् आह

आत्मज्ञानवतः सर्वकर्मत्यागसम्भावनाम् उक्त्वा तद्धीनस्य तदसम्भवे हेतुवचनत्वेन अनन्तरश्लोकम् अवतारयति -

यः पुनरिति ।

न बाधितम् आत्मनि कर्तृत्वविज्ञानम् अस्य इति अज्ञः, तथा तस्य भावः तत्ता, तयेति यावत् । एवम् अर्थं दर्शयितुम् अज्ञस्य सर्वकर्मसंन्यासासम्भवे हेतुम् आह इति योजना । यस्मात् इत्यस्य तस्मात् इत्युत्तरेण सम्बन्धः ।