श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनिष्टमिष्टं मिश्रं
त्रिविधं कर्मणः फलम्
भवत्यत्यागिनां प्रेत्य
तु संन्यासिनां क्वचित् ॥ १२ ॥
अनिष्टं नरकतिर्यगादिलक्षणम् , इष्टं देवादिलक्षणम् , मिश्रम् इष्टानिष्टसंयुक्तं मनुष्यलक्षणं च, तत्र त्रिविधं त्रिप्रकारं कर्मणः धर्माधर्मलक्षणस्य फलं बाह्यानेककारकव्यापारनिष्पन्नं सत् अविद्याकृतम् इन्द्रजालमायोपमं महामोहकरं प्रत्यगात्मोपसर्पि इव — फल्गुतया लयम् अदर्शनं गच्छतीति फलनिर्वचनम् — तत् एतत् एवंलक्षणं फलं भवति अत्यागिनाम् अज्ञानां कर्मिणां अपरमार्थसंन्यासिनां प्रेत्य शरीरपातात् ऊर्ध्वम् । न तु संन्यासिनां परमार्थसंन्यासिनां परमहंसपरिव्राजकानां केवलज्ञाननिष्ठानां क्वचित् । न हि केवलसम्यग्दर्शननिष्ठा अविद्यादिसंसारबीजं न उन्मूलयति कदाचित् इत्यर्थः ॥ १२ ॥

सर्वकर्मत्यागो नाम तदनुष्ठानेऽपि तत्फलाभिसन्धित्यागः स च अमुख्यसंन्यासः । तस्य फलम् आह -

अनिष्टमिति ।

मुख्ये तु संन्यासे सर्वकर्मत्यागे सम्यग्धीद्वारा सर्वसंसारोच्छित्तिरेव फलम् इत्याह -

न त्विति ।

पादत्रयं व्याकरोति -

अनिष्टमित्यादिना ।

तिर्यगादीत्यादिपदम् अवशिष्टनिकृष्टयोनिसङ्ग्रहार्थं, देवादीत्यादिपदम् अवशिष्टोत्कृष्टयोनिग्रहणाय इति विभागः ।

फलशब्दं व्युत्पादयति-

बाह्येति ।

करणद्वारकम् अनेकविधत्वम् उकत्वा मिथ्यात्वम् आह -

अविद्येति ।

तत्कृतत्वेन दृष्टिमात्रदेहत्वे दृष्टान्तमाह -

इन्द्रेति ।

प्रतीतितः रमणीयत्वं सूचयति -

महामोहेति ।

अविद्योत्थस्य अविद्याश्रितत्वात् आत्माश्रितत्वं वस्तुतः नास्ति इति आह -

प्रत्यगिति ।

उक्तं फलं कर्मिणाम् इष्यते चेत् अमुख्यसंन्यासफलोक्तिपरत्वं पादत्रयस्य कथम् इष्टम् ? इति आशङ्क्य आह -

अपरमार्थेति ।

फलाभिसन्धिविकलानां कर्मिणां देहपातात् ऊर्ध्वं कर्मानुरोधिफलम् आवश्यकम् इत्यर्थः ।

कर्मिणामेव सताम् अफलाभिसन्धीनाम् अमुख्यसंन्यासित्वात् तदीयामुख्यसंन्यासस्य फलम् उक्त्वा चतुर्थपादं व्याचष्टे-

न त्विति ।

अमुख्यसंन्यासम् अनन्तरप्रकृतं व्यवच्छिनत्ति -

परमार्थेति ।

तेषां प्रधानं धर्मम् उपदिशति -

केवलेति ।

क्वचित्  देशे काले वा नास्ति यथोक्तं फलं तेषामिति सम्बन्धः ।

तर्हि परमार्थसंन्यासः अफलत्वात् न अनुष्ठीयेत इति आशङ्क्य तस्य मोक्षावसायित्वात् मैवम् इत्याह -

न हीति

॥ १२ ॥