श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनिष्टमिष्टं मिश्रं
त्रिविधं कर्मणः फलम्
भवत्यत्यागिनां प्रेत्य
तु संन्यासिनां क्वचित् ॥ १२ ॥
किं पुनः तत् प्रयोजनम् , यत् सर्वकर्मसंन्यासात् स्यादिति, उच्यते —

उक्ताधिकारिणः सर्वकर्मसंन्यासासम्भवेऽपि फलाभावे कुतः तस्य कर्तव्यता इति शङ्कते -

किं पुनरिति ।

गौणस्य मुख्यस्य वा संन्यासस्य फलं पिपृच्छिषितम् ? इति विकल्पयति -

उच्यत इति ।