श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अधिष्ठानं तथा कर्ता करणं पृथग्विधम्
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १४ ॥
अधिष्ठानम् इच्छाद्वेषसुखदुःखज्ञानादीनाम् अभिव्यक्तेराश्रयः अधिष्ठानं शरीरम् , तथा कर्ता उपाधिलक्षणः भोक्ता, करणं श्रोत्रादि शब्दाद्युपलब्धये पृथग्विधं नानाप्रकारं तत् द्वादशसङ्ख्यं विविधाश्च पृथक्चेष्टाः वायवीयाः प्राणापानाद्याः दैवं चैव दैवमेव अत्र एतेषु चतुर्षु पञ्चमं पञ्चानां पूरणम् आदित्यादि चक्षुराद्यनुग्राहकम् ॥ १४ ॥

प्रतीकम् आदाय व्याकरोति -

अधिष्ठानमिति ।

उपाधिलक्षणः - बुद्ध्यादिः उपाधिः, तल्लक्षणः - तत्स्वभावः, बुद्ध्याद्यनुविधायी - तद्धर्मान् आत्मनि पश्यन् उपहितः तत्प्रधानः इत्यर्थः ।

तत्र कार्यलिङ्गकम् अनुमानं सूचयति -

शब्दादीति ।

ज्ञानेन्द्रियाणि पञ्च, पञ्च कर्मेन्द्रियाणि, मनः, बुद्धिश्च, इति द्वादशसङ्ख्यत्वम् । चेष्टायाः विविधत्वात् नानाप्रकारकत्वम् । तदेव स्पष्टयति -

वायवीया इति ।

पृथक्त्वं   - असङ्कीर्णत्वम् । न हि प्राणापानादिचेष्टानां मिथः सङ्करः अस्ति । दैवमेव इति विशदयति -

आदित्यादीति

॥ १४ ॥