श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १५ ॥
ननु एतानि अधिष्ठानादीनि सर्वकर्मणां निर्वर्तकानि । कथम् उच्यते ‘शरीरवाङ्मनोभिः यत् कर्म प्रारभते’ इति ? नैष दोषः ; विधिप्रतिषेधलक्षणं सर्वं कर्म शरीरादित्रयप्रधानम् ; तदङ्गतया दर्शनश्रवणादि च जीवनलक्षणं त्रिधैव राशीकृतम् उच्यते शरीरादिभिः आरभ्यते इति । फलकालेऽपि तत्प्रधानैः साधनैः भुज्यते इति पञ्चानामेव हेतुत्वं न विरुध्यते इति ॥ १५ ॥

अधिष्ठानादीनां कर्ममात्रहेतुत्वं प्रतिज्ञाय, शरीरादित्रिविधकर्महेतुत्वोक्तिः अयुक्ता इति शङ्कते -

नन्विति ।

पूर्वापरविरोधं परिहरति -

नैष दोषः इति ।

ननु जीवनकृतानि स्वाभाविकानि कर्माणि दर्शनादीनि विधिनिषेधबाह्यत्वात् न देहादिनिर्वर्त्यानि इति आशङ्क्य आह -

तदङ्गतयेति ।

तस्य देहादित्रयस्य प्रधानस्य अङ्गं चक्षुरादि, तन्निष्पाद्यत्वेन जावनकृतं दर्शनादि प्रधानकर्मणि अन्तर्भूतम् इति त्रैविध्यम् अविरुद्धम् इत्यर्थः ।

देहाद्यारभ्ये त्रिविधे कर्मणि सर्वकर्मान्तर्भावेऽपि कथं पञ्चानामेव अधिष्ठानादीनां तत्र हेतुत्वम् , फलोपभोगकाले कारणान्तरापेक्षासम्भवात् ? इति आशङ्क्य, जन्मकालभाविनः भोगकालभावितश्च सर्वस्य कारणस्य तेष्वेव अन्तर्भावात् मैव इत्याह -

फलेति

॥ १५ ॥