श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्रैवं सति कर्तारमात्मानं केवलं तु यः
पश्यत्यकृतबुद्धित्वान्न पश्यति दुर्मतिः ॥ १६ ॥
तत्र इति प्रकृतेन सम्बध्यतेएवं सति एवं यथोक्तैः पञ्चभिः हेतुभिः निर्वर्त्ये सति कर्मणितत्रैवं सति इति दुर्मतित्वस्य हेतुत्वेन सम्बध्यतेतत्र एतेषु आत्मानन्यत्वेन अविद्यया परिकल्पितैः क्रियमाणस्य कर्मणःअहमेव कर्ताइति कर्तारम् आत्मानं केवलं शुद्धं तु यः पश्यति अविद्वान् ; कस्मात् ? वेदान्ताचार्योपदेशन्यायैः अकृतबुद्धित्वात् असंस्कृतबुद्धित्वात् ; योऽपि देहादिव्यतिरिक्तात्मवादी आत्मानमेव केवलं कर्तारं पश्यति, असावपि अकृतबुद्धिः ; अतः अकृतबुद्धित्वात् सः पश्यति आत्मनः तत्त्वं कर्मणो वा इत्यर्थःअतः दुर्मतिः, कुत्सिता विपरीता दुष्टा अजस्रं जननमरणप्रतिपत्तिहेतुभूता मतिः अस्य इति दुर्मतिःसः पश्यन्नपि पश्यति, यथा तैमिरिकः अनेकं चन्द्रम् , यथा वा अभ्रेषु धावत्सु चन्द्रं धावन्तम् , यथा वा वाहने उपविष्टः अन्येषु धावत्सु आत्मानं धावन्तम् ॥ १६ ॥

क्रियाकर्तृत्वम् अधिष्ठानादीनाम् आपाद्य, अविदुषः तेषु आत्मदृष्टिम् अनुवदति -

तत्रेति ।

तत्पदपरामर्शयोग्यं प्रकृतं सर्वं कर्म ।

प्रतीकम् आदाय पूर्वेण सह अक्षरार्थं कथयति -

एवमिति ।

अधिष्ठानादीनाम् उक्तरीत्या कर्तृत्वे सति अन्यगतं कर्तृत्वम् आन्मनः, यत अध्यारोप्य पश्यति, अतः दुर्मतिरिति आत्मनि कर्तृत्वं पश्यन् इत्याह-

तत्रैवमिति ।

कर्तारम् इत्यादि व्याचष्टे -

तत्रेत्यादिना ।

तेषु अधिष्ठानादिषु, तैः अधिष्ठानादिभिः आरोपितात्मभावैः इत्यर्थः ।

अकर्तारम् आत्मानं कर्तारं पश्यति इत्यत्र प्रश्नद्वारा हेतुम् आह -

कस्मादिति ।

ननु शास्त्रसंस्कृतबुद्धिरेव अतिरिक्तात्मवादी कर्तृत्वं तस्य अनुमन्यते । नासौ कर्तृत्वम् आत्मनि पश्यन्नपि भवति अकृतबुद्धिः । तत्र आह -

योऽपीति ।

तस्यापि शास्त्रीपूर्वकम् आचार्योपदेेशेन तदनुसारिन्यायैश्च अनाहितबुद्धित्वात् अकृतबुद्धित्वं सिद्धम् इत्यर्थः ।

कौटस्थ्यम् आत्मनः तत्त्वं - याथात्म्यं कर्मणोऽपि तत्त्वं - अविद्याकृताधिष्ठानादिकृतत्वेन आत्मास्पर्शित्वम् । आत्मकर्मणोः तत्त्वदर्शनाभावः अतःशब्दर्थः । दुष्टत्वं स्पष्टीकर्तुं दुर्मतित्वं विवृणोति -

जननेति ।

अहं कर्ता इति आत्मदर्शनवतोऽपि न अविदुषः तद्दर्शनम् अस्तीति, अत्र दृष्टान्तम् आह -

यथेति ।

तिमिरोपहतचक्षुः अनेकं चन्द्रं पश्यन्नपि, तत्त्वतः न तं पश्यति । एवम् अविद्वान् आत्मानं कर्तारं पश्यन्नपि तत्त्वतः न तं पश्यति इत्यर्थः ।

अधिष्ठानादिषु अविद्यया सम्बद्धात्मनः स्वात्मनि तद्गतक्रियारोपे दृष्टान्तमाह -

यथा वेति ।

 अन्येषु - वाहकेषु पुरुषेषु धावनकर्तृषु वाहने स्थितः स्वात्मानं प्रधावनकर्तारम् अविवेकात् अभिमन्यते । तथा अधिष्ठानादिषु क्रियाकर्तृषु तद्गतं स्वात्मानं कर्तारं मन्यमानः दुर्मतिः इत्यर्थः

॥ १६ ॥