अहं कर्ता इति आत्मनि कर्तृत्वप्रत्ययाभावे कुत्र कर्तृत्वधीः इति आशङ्क्य आह-
एते इति ।
कथं तर्हि कर्तृत्वधीः आत्मनि ? इति आशङ्क्य, अधिष्ठानादीनां तद्व्यापाराणां च साक्षित्वात् इति आह -
अहं त्विति ।
आत्मनः न स्वतः अस्ति क्रियाशक्तिमत्त्वम् इति अत्र प्रमाणम् आह -
अप्राणो हीति ।
नापि तस्य स्वतः ज्ञानशक्तिमत्त्वम् इति आह -
अमना इति ।
उपाधिद्वयासम्बन्धे शुद्धत्वं फलितम् आह -
शुभ्र इति ।
कारणसम्बन्धात् अशुद्धिम् आशङ्क्य उक्तं -
अक्षरादिति ।
कार्यकारणयोः आत्मास्पर्शित्वेन पार्थक्ये, सद्वितीयत्वम् आशङ्क्य, तयोः अवस्तुत्वात् मैवम् इत्याह -
केवल इति ।
जन्मादि सर्वविक्रियारहितत्वेन कौटस्थ्यम् आह -
अविक्रिय इति ।
बुद्धिर्यस्येत्यादि व्याचष्टे -
बुद्धिरिति ।
न अनुशायिनी - न अनुशयवती, न क्लेशशालिनी इत्यर्थः ।
द्वितीयपादस्य अक्षरार्थम् उक्तवा वाक्यार्थमाह -
इदमिति ।
पापं कर्म इदमा परामृश्यते ।
लोकानां प्राणसम्बन्धाभावे कुतः हिंसा इति आशङ्क्य आह -
प्राणिनः इति ।