श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य लिप्यते
हत्वापि इमांल्लोकान्न हन्ति निबध्यते ॥ १७ ॥
ननु हत्वापि हन्ति इति विप्रतिषिद्धम् उच्यते यद्यपि स्तुतिःनैष दोषः, लौकिकपारमार्थिकदृष्ट्यपेक्षया तदुपपत्तेःदेहाद्यात्मबुद्ध्याहन्ता अहम्इति लौकिकीं दृष्टिम् आश्रित्यहत्वापिइति आहयथादर्शितां पारमार्थिकीं दृष्टिम् आश्रित्य हन्ति निबध्यतेइतिएतत् उभयम् उपपद्यते एव

विरुद्धार्थोक्त्या स्तुतिरपि न युक्ता इति शङ्कते -

नन्विति ।

विरोधं परिहरति -

न एषः दोष इति ।

लौकिकदृष्टिमवष्टभ्य हत्वापीति निर्देशं विशदयति -

देहादीति ।

तात्त्विकीं दृष्टि आस्थाय न हन्ति इत्यादिनिर्देशम् उपपादयति -

यथेति ।

नाहं कर्ता, किन्तु कर्तृतद्व्यापारयोः साक्षी क्रियाज्ञानशक्तिमदुपाधिद्वयविनिर्मुक्तः शुद्धः सन् कार्यकारणासम्बद्धः अद्वितीयः अविक्रियः इत्येवं पारमार्थिकदृष्टेः यथादर्शितत्वं द्रष्टव्यम् ।

‘हत्वापि’ इत्येतत् ‘न हन्ति’ इत्यादि च उभयं दृष्टिद्वयावष्टम्भात् उपपन्नम् इति उपसंहरति -

तदुभयमिति ।