विरुद्धार्थोक्त्या स्तुतिरपि न युक्ता इति शङ्कते -
नन्विति ।
विरोधं परिहरति -
न एषः दोष इति ।
लौकिकदृष्टिमवष्टभ्य हत्वापीति निर्देशं विशदयति -
देहादीति ।
तात्त्विकीं दृष्टि आस्थाय न हन्ति इत्यादिनिर्देशम् उपपादयति -
यथेति ।
नाहं कर्ता, किन्तु कर्तृतद्व्यापारयोः साक्षी क्रियाज्ञानशक्तिमदुपाधिद्वयविनिर्मुक्तः शुद्धः सन् कार्यकारणासम्बद्धः अद्वितीयः अविक्रियः इत्येवं पारमार्थिकदृष्टेः यथादर्शितत्वं द्रष्टव्यम् ।
‘हत्वापि’ इत्येतत् ‘न हन्ति’ इत्यादि च उभयं दृष्टिद्वयावष्टम्भात् उपपन्नम् इति उपसंहरति -
तदुभयमिति ।