श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८ ॥
ज्ञानं ज्ञायते अनेन इति सर्वविषयम् अविशेषेण उच्यते । तथा ज्ञेयं ज्ञातव्यम् , तदपि सामान्येनैव सर्वम् उच्यते । तथा परिज्ञाता उपाधिलक्षणः अविद्याकल्पितः भोक्ता । इति एतत् त्रयम् अविशेषेण सर्वकर्मणां प्रवर्तिका त्रिविधा त्रिप्रकारा कर्मचोदना । ज्ञानादीनां हि त्रयाणां संनिपाते हानोपादानादिप्रयोजनः सर्वकर्मारम्भः स्यात् । ततः पञ्चभिः अधिष्ठानादिभिः आरब्धं वाङ्मनःकायाश्रयभेदेन त्रिधा राशीभूतं त्रिषु करणादिषु सङ्गृह्यते इत्येतत् उच्यते — करणं क्रियते अनेन इति बाह्यं श्रोत्रादि, अन्तःस्थं बुद्ध्यादि, कर्म ईप्सिततमं कर्तुः क्रियया व्याप्यमानम् , कर्ता करणानां व्यापारयिता उपाधिलक्षणः, इति त्रिविधः त्रिप्रकारः कर्मसङ्ग्रहः, सङ्गृह्यते अस्मिन्निति सङ्ग्रहः, कर्मणः सङ्ग्रहः कर्मसङ्ग्रहः, कर्म एषु हि त्रिषु समवैति, तेन अयं त्रिविधः कर्मसङ्ग्रहः ॥ १८ ॥

शास्त्रार्थोपसंहारानन्तर्यम् अथ इत्युक्तम् । इदानीमिति प्रवर्तकोपदेशापेक्षावस्था उक्ता । कर्मणां येषु विदुषां न अधिकारः, अविदुषां च अधिकारः, तेषाम् इत्यर्थः । ज्ञानशब्दस्य करणव्युत्पत्त्या ज्ञानमात्रार्थत्वम् आह -

ज्ञानमिति ।

ज्ञेयशब्दस्यापि तद्वदेव ज्ञातव्यमात्रार्थत्वम् आह-

तथेति ।

उपाधिलक्षणत्वं - तत्प्रधानत्वम् उपहितत्वम् । तस्य अवस्तुत्वार्थं अविद्याकल्पितविशेपणम् । एतदेव त्रयं सर्वकर्मप्रवर्तकम् इत्याह -

इत्येतदिति ।

सर्वकर्मणां प्रवर्तकम् इति अध्याहर्तव्यम् ।

चोदनेति क्रियायाः प्रवर्तकं वचनम् इति भाष्यानुसारेण चोदनाशब्दार्थम् आह -

प्रवर्तिकेति ।

सर्वकर्मणाम् इति पूर्वेणसम्बन्धः । त्रैविध्यं ज्ञानादिना प्राक् उक्तम् । कर्मणां चोदना इति विग्रहः ।

तेषां सर्वकर्मप्रवर्तकत्वम् अनुभवेन साधयति -

ज्ञानादीनामिति ।

हानोपादानादि इति आदिपदेन उपेक्षा विवक्षिता ।

करणम् इत्यादेः तात्पर्यम् आह -

तत इति ।

ज्ञानादीनां प्रवर्तकत्वात् इत्यर्थः ।

उक्तेऽर्थे श्लोकभागम् अवतारयति -

इत्येतदिति ।

बाह्यम् अन्तस्थं च द्विविधं करणं करणव्युत्पत्त्या कथयति -

करणमिति ।

उक्तलक्षणं कर्मैव स्फुटयति -

कर्तुरिति ।

स्वतन्त्रो हि कर्ता ।

स्वातन्त्र्यं च कारकाप्रयोज्यस्य तत्प्रयोक्तृत्वम् इत्याह -

कर्तेति ।

कथम् उक्ते त्रिविधे कर्म सङ्गृह्यते ? तत्राह -

कर्मेति ।

कर्मणो हि प्रसिद्धं कारकाश्रयत्वम् इति भावः

॥ १८ ॥