प्रतिदेहम् अन्यत्वेन भिन्नात्मनः येन ज्ञानेन जानाति, तत् ज्ञानं राजसम् इति व्याचष्टे -
भेदेनेति ।
पृथक्त्वं पृथग्विधत्वं च पुनरुक्तम् इति आशङ्क्य, हेतुहेतुमत्त्वेन विभागं विवक्षित्वा आह -
भिन्नेति ।
ज्ञानस्य ज्ञानकर्तृत्वम् अयुक्तम् इति आशङ्क्य, आह -
येनेति
॥ २१ ॥