मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
अष्टादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
नियतं
सङ्गरहितमरागद्वेषतःकृतम्
।
अफलप्रेप्सुना
कर्म
यत्तत्सात्त्विकमुच्यते
॥ २३ ॥
नियतं
नित्यं
सङ्गरहितम्
आसक्तिवर्जितम्
अरागद्वेषतःकृतं
रागप्रयुक्तेन
द्वेषप्रयुक्तेन
च
कृतं
रागद्वेषतःकृतम्
,
तद्विपरीतम्
अरागद्वेषतःकृतम्
,
अफलप्रेप्सुना
फलं
प्रेप्सतीति
फलप्रेप्सुः
फलतृष्णः
तद्विपरीतेन
अफलप्रेप्सुना
कर्त्रा
कृतं
कर्म
यत्
,
तत्
सात्त्विकम्
उच्यते
॥ २३ ॥
नियतमिति
;
तत्र सात्त्विकं कर्म निरूपयति -
नियतमिति
॥ २३ ॥