मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
अष्टादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
नियतं
सङ्गरहितमरागद्वेषतःकृतम्
।
अफलप्रेप्सुना
कर्म
यत्तत्सात्त्विकमुच्यते
॥ २३ ॥
नियतं नित्यं सङ्गरहितम् आसक्तिवर्जितम् अरागद्वेषतःकृतं रागप्रयुक्तेन द्वेषप्रयुक्तेन च कृतं रागद्वेषतःकृतम् , तद्विपरीतम् अरागद्वेषतःकृतम् , अफलप्रेप्सुना फलं प्रेप्सतीति फलप्रेप्सुः फलतृष्णः तद्विपरीतेन अफलप्रेप्सुना कर्त्रा कृतं कर्म यत् , तत् सात्त्विकम् उच्यते ॥ २३ ॥
नियतमिति
;
तत्र सात्त्विकं कर्म निरूपयति -
नियतमिति
॥ २३ ॥