मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
अष्टादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
अनुबन्धं
क्षयं
हिंसामनपेक्ष्य
च
पौरुषम्
।
मोहादारभ्यते
कर्म
यत्तत्तामसमुच्यते
॥ २५ ॥
अनुबन्धं
पश्चाद्भावि
यत्
वस्तु
सः
अनुबन्धः
उच्यते
तं
च
अनुबन्धम्
,
क्षयं
यस्मिन्
कर्मणि
क्रियमाणे
शक्तिक्षयः
अर्थक्षयो
वा
स्यात्
तं
क्षयम्
,
हिंसां
प्राणिबाधां
च
;
अनपेक्ष्य
च
पौरुषं
पुरुषकारम्
‘
शक्नोमि
इदं
कर्म
समापयितुम्
’
इत्येवम्
आत्मसामर्थ्यम्
,
इत्येतानि
अनुबन्धादीनि
अनपेक्ष्य
पौरुषान्तानि
मोहात्
अविवेकतः
आरभ्यते
कर्म
यत्
,
तत्
तामसं
तमोनिर्वृत्तम्
उच्यते
॥ २५ ॥
अनुबन्धमित्यादिना
;
सम्प्रति तापसं कर्म उदाहरति-
अनुबन्धमित्यादिना
॥ २५ ॥