मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
अष्टादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
अनुबन्धं
क्षयं
हिंसामनपेक्ष्य
च
पौरुषम्
।
मोहादारभ्यते
कर्म
यत्तत्तामसमुच्यते
॥ २५ ॥
अनुबन्धं पश्चाद्भावि यत् वस्तु सः अनुबन्धः उच्यते तं च अनुबन्धम् , क्षयं यस्मिन् कर्मणि क्रियमाणे शक्तिक्षयः अर्थक्षयो वा स्यात् तं क्षयम् , हिंसां प्राणिबाधां च ; अनपेक्ष्य च पौरुषं पुरुषकारम् ‘शक्नोमि इदं कर्म समापयितुम्’ इत्येवम् आत्मसामर्थ्यम् , इत्येतानि अनुबन्धादीनि अनपेक्ष्य पौरुषान्तानि मोहात् अविवेकतः आरभ्यते कर्म यत् , तत् तामसं तमोनिर्वृत्तम् उच्यते ॥ २५ ॥
अनुबन्धमित्यादिना
;
सम्प्रति तापसं कर्म उदाहरति-
अनुबन्धमित्यादिना
॥ २५ ॥