श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥
रागी रागः अस्य अस्तीति रागी, कर्मफलप्रेप्सुः कर्मफलार्थी इत्यर्थः, लुब्धः परद्रव्येषु सञ्जाततृष्णः, तीर्थादौ स्वद्रव्यापरित्यागी वा, हिंसात्मकः परपीडाकरस्वभावः, अशुचिः बाह्याभ्यन्तरशौचवर्जितः, हर्षशोकान्वितः इष्टप्राप्तौ हर्षः अनिष्टप्राप्तौ इष्टवियोगे शोकः ताभ्यां हर्षशोकाभ्याम् अन्वितः संयुक्तः, तस्यैव कर्मणः सम्पत्तिविपत्तिभ्यां हर्षशोकौ स्याताम् , ताभ्यां संयुक्तो यः कर्ता सः राजसः परिकीर्तितः ॥ २७ ॥

राजसं कर्तारं कथयति -

रागीति ।

कर्मविषयः रागः, कर्मफलप्रेप्सुरिति फलरागस्य पृथक् कथनात् । स्वाभिप्रायाप्रकटीकरणपूर्वकं परपीडनं परविच्छेदनं तेन स्वार्थपरः इत्यर्थः

॥ २७ ॥