दीर्घं सूत्रयितुं शीलम् अस्य इति व्युत्पत्तिं गृहीत्वा विवक्षितम् अर्थ आह -
कर्तव्यानामिति ।
एवं क्रियमाणे सति अनिष्टम् इदं कथञ्चित् आपद्येत ; यदा पुनः एवं क्रियते तदा तु अनिष्टमेव सम्भावनोपनीतम् इति चिन्तापरम्परायां मन्थरप्रवृत्तिः इत्यर्थः ।
तदेव स्पष्टयति -
यदद्येति
॥ २८ ॥