ज्ञानादीनां प्रत्येकं त्रैविध्यम् उक्त्वा, वृत्तिमत्त्याः बुद्धेः तद्वृत्तेश्च धृत्याख्यायाः त्रैविध्यं सूचयति -
बुद्धेरिति ।
सूत्रविवरणं प्रतिजानीते-
प्रोच्यमानमिति ।
अर्जुनस्य धनञ्जयत्वं व्युत्पादयति -
दिगिति
॥ २९ ॥