कार्याकार्ययोः धर्माघर्माभ्यां पौनरुक्त्यं परिहरति -
पूर्वोक्ते इति ।
पूर्वश्लोके कार्याकार्यशब्दाभ्यां दृष्टादृष्टार्थानां कर्मणां करणाकरणे निर्दिष्टे । तयोरेव अत्र ग्रहणात् न धर्माधर्माभ्यां पूर्वपर्यायाभ्यां गतार्थता इति अर्थः । या (सा) बुद्धिः, यया बुद्ध्या बोद्धा निर्णयेन न जानाति इत्यर्थः
॥ ३१ ॥